|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.45. अध्यायः 045
Mahabharata - Karna Parva - Chapter Topics
कर्णं पराजित्य जिघांसोर्भीमस्य शल्येन हेतुकयहपूर्वकं निषेधनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-45-0x(4957)(57152)
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्। 8-45-1(57153)
अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षत॥ 8-45-10(57162)
हन्तास्म्यद्य रणे कर्णं स वा मां निहनिष्यति।
सङ्ग्रामेऽद्य सुघोरेऽस्मिन्सत्यमेतद्ब्रवीमि वः॥ 8-45-11(57163)
राजानमद्य भवतां न्यासभूतं ददानि वै।
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः॥ 8-45-12(57164)
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति।
सिंहनादेन महता सर्वाः सन्नादयन्दिशः॥ 8-45-13(57165)
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्।
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः॥ 8-45-14(57166)
शल्य उवाच। 8-45-15x(4958)
पश्य कर्ण महाबाहुं सङ्क्रुद्धं पाण्डुनन्दनम्।
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम्॥ 8-45-15(57167)
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन।
अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे॥ 8-45-16(57168)
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे।
बिभर्ति सदृशं रूपं युगान्ताग्निसमप्रभम्॥ 8-45-17(57169)
सञ्जय उवाच। 8-45-18x(4959)
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप।
अभ्यवर्तत वै कर्णं क्रोधदीप्ततो वृकोदरः॥ 8-45-18(57170)
अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम्।
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव॥ 8-45-19(57171)
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर।
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः॥ 8-45-20(57172)
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः।
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः॥ 8-45-21(57173)
अज्ञातवासं वसता विराटनगरे तदा।
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्।
गूढभावं समाश्रित्य कीचकः सगणो हतः॥ 8-45-22(57174)
सोऽद्य सङ्ग्रामशिरसि सन्नद्वः क्रोधमूर्च्छितः।
किं करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम्॥ 8-45-23(57175)
चिरकालाभिलषितो ममायं तु मनोरथः।
अर्जुनं समरे हन्यां मां वा हन्याद्वनञ्जयः॥ 8-45-24(57176)
स मे कदाचिदद्यैव भवेद्भीमसमागमात्॥ 8-45-25(57177)
निहते भीमसेने वा यदि वा विरथीकृते।
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति।
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय॥ 8-45-26(57178)
सञ्जय उवाच। 8-45-27x(4960)
एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः।
उवाच वचनं शल्यः सूतपुत्रं तथागतम्॥ 8-45-27(57179)
अभियाहि महाबाहो भीमसेनं महाबलम्।
निरपेक्षश्च युध्यस्व शक्तिं स्वां सम्प्रदर्शयन्॥ 8-45-28(57180)
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गततः।
स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते॥ 8-45-29(57181)
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत।
हन्ताऽहमेनं संरब्धं मां वा हन्ता वृकोदरः॥ 8-45-30(57182)
एवमुक्त्वा महाराज राधेयो रथिनां वरः।
युद्धे मनः समाधाय याहि याहीत्यचोदयत्॥ 8-45-31(57183)
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते।
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्॥ 8-45-32(57184)
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः।
उदतिष्ठच्च राजेन्द्र कर्णभीमसमागमे॥ 8-45-33(57185)
भीमसेनोऽथथ सङ्क्रुद्धस्तस्य सैन्यं दुरासदम्।
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली॥ 8-45-34(57186)
स सन्निपातस्ततुमुलो घोररूपो विशाम्पते।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे॥ 8-45-35(57187)
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव।
भीमसेनो महाबाहुः कर्णं प्रेप्सुरभिद्रवत्॥ 8-45-36(57188)
समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषा।
आजघान सुसङ्क्रुद्धो नाराचेन स्तनान्तरे।
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्॥ 8-45-37(57189)
स विद्वः सूतपुत्रेण च्छादयामास पत्रिभिः।
विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः॥ 8-45-38(57190)
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः॥ 8-45-39(57191)
अथैनं छिन्नधन्वानं प्रतत्यविध्यत्स्तनान्तरे।
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना॥ 8-45-40(57192)
सोऽन्यत्कार्मुकमादाय सूततपुत्रं वृकोदरः।
राजन्मर्मसु मर्मज्ञो विव्याध निशितैः शरैः।
ननाद बलवन्नादं कम्पयन्निव रोदसी॥ 8-45-41(57193)
ततं कर्णः पञ्चविंशत्या नाराचानां समार्पयत्।
मदोत्कटं वने दृप्ततमुल्काभिरिव कुञ्जरम्॥ 8-45-42(57194)
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः।
संरम्भामर्षताम्राक्षः सूतपुत्रवधेप्सया॥ 8-45-43(57195)
स कार्मुके महावेगं भारसाधनमुत्तमम्।
गिरीणामपि भेत्तारं सायकं समयोजयत्॥ 8-45-44(57196)
विकृष्य बलवच्चापमाकर्णादतिमारुतिः।
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया॥ 8-45-45(57197)
स विसृष्टो बलवता बाणो वज्राशनिस्वनः।
अदारयद्रणे कर्णं वज्रवेगो यथाऽचलम्॥ 8-45-46(57198)
स भीमसेनाभिहतः सूतपुत्रः कुरूद्वह।
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः।
`रुधिरेणावसिक्ताङ्गो गतासुवदरिन्दमः॥ 8-45-47(57199)
एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम्।
जिघांसुं छेत्तुमायान्तं साधयन्निदमब्रवीत्॥ 8-45-48(57200)
भीमसेन महाबाहो यतत्तत्वां वक्ष्यामि तच्छृणु।
वचनं हेतुसम्पन्नं श्रुत्वा चैतत्तथा कुरु॥ 8-45-49(57201)
अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः।
तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः॥ 8-45-50(57202)
भीमसेन उवाच। 8-45-51x(4961)
दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम।
राज्ञस्तु धर्षणं पापः कृतवान्मम सन्निधौ॥ 8-45-51(57203)
ततः कोपाभिभूतेन शेषं न गणितं मया।
पतिते चापि राधेये न मे मन्युः शमं गतः)।
जिह्वोद्वरणमेवास्य प्राप्तकालं मतं मम॥ 8-45-52(57204)
अनेन सुनृशंसेन समवेतेषु राजसु।
अस्माकं शृण्वतां शल्य यानि वाक्यानि मातुल।
असहेयानि नीचानि बहूनि श्रावितानि भो॥ 8-45-53(57205)
नूनं चैतत्प्रतिज्ञातं दूरस्थस्यापि पार्थिव।
छेदनं चास्य जिह्वायास्तदैवाकाङ्क्षितं मया।
राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः॥ 8-45-54(57206)
भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम्।
तद्गृहीतं महारात कटुकस्थमिवौषधम्॥ 8-45-55(57207)
हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित्।
अस्मिन्विनष्टे नष्टाः स्मः सर्व एव सकेशवाः॥ 8-45-56(57208)
अद्य चैव नृशंसात्मा पापः पापकृतां वरः।
गमिष्यतति परीभावं दृष्टमात्रः किरीटिना॥ 8-45-57(57209)
युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत्।
त्वया संरक्षिततस्तत्वद्य मत्समीपादुपागतः॥ 8-45-58(57210)
सञ्जय उवाच।' 8-45-59x(4962)
एवं मद्राधिपः श्रुत्वा विसंज्ञं सूतनन्दनम्।
अपोवाह रथेनाजौ कर्णमाहवशोभिनम्॥ 8-45-59(57211)
पराजिते ततः कर्णे धार्तराष्ट्री महाचमूः।
व्यपायात्सर्वतो भग्ना हाहाभूता समन्ततः॥ ॥ 8-45-60(57212)
इति श्रीमन्महाभारते कर्णपर्वणि सप्ततदशदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-45-59 ततो मद्राधिपो दृष्ट्वा इति झ.पाठः॥ 8-45-45 पञ्चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|